|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.26. अध्यायः 026
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण व्यासंप्रति निर्वेदवचनम्॥ 1॥ व्यासेन युधिष्ठिरंप्रति राज्यपालनविधानम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-26-0x(6266)(75715)
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ॥ 12-26-1(75716)
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे।
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे॥ 12-26-2(75717)
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम्।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम्॥ 12-26-3(75718)
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम्।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः॥ 12-26-4(75719)
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः।
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्॥ 12-26-5(75720)
जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम्।
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः॥ 12-26-6(75721)
प्राड्भुखं सीदमानं च रथात्पररथारुजम्।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्॥ 12-26-7(75722)
यः सवाणधनुष्पाणिर्योधयामास भार्गवम्।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे॥ 12-26-8(75723)
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे॥ 12-26-9(75724)
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः।
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः॥ 12-26-10(75725)
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्।
न बाणैः पातयामास सोऽर्जुनेन निपातितः॥ 12-26-11(75726)
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्।
तदैवाविशदन्युग्रो ज्वरो मां मुनिसत्तम॥ 12-26-12(75727)
येन संवर्धिता बाला येन स्म परिरक्षिताः।
स मया राज्यलुब्धेन पापेन गुरुधातिना।
अल्पकालस्य राज्यस्य कृते मूढेन पातितः॥ 12-26-13(75728)
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति॥ 12-26-14(75729)
तन्मे दहति गात्राणि यन्मां गुरुरभाषत।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः॥ 12-26-15(75730)
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान्।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया॥ 12-26-16(75731)
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे॥ 12-26-17(75732)
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम्॥ 12-26-18(75733)
अघातयं च यत्कर्णं समरेष्वपलायिनम्।
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः॥ 12-26-19(75734)
अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्॥ 12-26-20(75735)
तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम्।
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा॥ 12-26-21(75736)
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम्।
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव॥ 12-26-22(75737)
सोऽहमागस्करः पापः पृथिवीनाशकारकः।
आसीन एवमेवेदं शोषयिष्ये कलेवरम्॥ 12-26-23(75738)
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम्।
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्॥ 12-26-24(75739)
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन।
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः॥ 12-26-25(75740)
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः।
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्॥ 12-26-26(75741)
वैशम्पायन उवचा। 12-26-27x(6267)
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम्।
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः॥ 12-26-27(75742)
व्यास उवाच। 12-26-28x(6268)
अतिवेलं महाराज न शोकं कर्तुमर्हसि।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो॥ 12-26-28(75743)
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम्।
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च॥ 12-26-29(75744)
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥ 12-26-30(75745)
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे॥ 12-26-31(75746)
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः।
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम्॥ 12-26-32(75747)
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्क्ररु।
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप॥ ॥ 12-26-33(75748)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विशोऽध्यायः॥ 26॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-26-2 वृषसेने कर्णे॥ 12-26-7 पररथारुजं पररथानां पीडकम्॥ 12-26-16 आमर्शयन्निश्चिन्वन्॥ 12-26-28 अतिवेलमत्यर्थम्॥ 12-26-39 आलस्यं तत्काले सुखमपि दुःखान्तम्। दाक्ष्यं तत्काले दुःखमपि सुखोदयम्। भूतिः अणिमादिः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|